Reading 6 of 13
Chakshu Upanishad
चाक्षुषोपनिषद्
संस्कृत
ॐ अथातश्चाक्षुषीं पठितसिद्धविद्यां चक्षूरोगहरां व्याख्यास्यामः ।
यच्चक्षूरोगाः सर्वतो नश्यन्ति । चक्षुषी दीप्तिर्भविष्यतीति ।
तस्याश्चाक्षुषीविद्याया अहिर्बुध्न्य ऋषिः । गायत्री छंदः ।
सूर्यो देवता । चक्षूरोगनिवृत्तये जपे विनियोगः ।
ॐ चक्षुश्चक्षुश्चक्षुश्तेजस्थिरोभव । मां पाहि पाहि ।
त्वरितम् चक्षूरोगान् शमय शमय । मम जातरूपं तेजो दर्शय दर्शय ।
यथाऽहमन्धो न स्यां तथा कल्पय कल्पय । कल्याणं कुरु कुरु ।
यानि मम पूर्वजन्मोपार्जितानि चक्षुःप्रतिरोधकदुष्कृतानि सर्वाणि निर्मूलय निर्मूलय ।
ॐ नमश्चक्षुस्तेजोदात्रे दिव्याय भास्कराय ।
ॐ नमः करुणाकरायामृताय । ॐ नमः सूर्याय ।
ॐ नमो भगवते सूर्यायाक्षितेजसे नमः ।
खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः ।
असतो मा सद्गमय । तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय । उष्णो भगवाञ्छुचिरूपः ।
हंसो भगवान् शुचिप्रतिरूपः । य इमां चाक्षुष्मतीविद्यां ब्राह्मणो नित्यमधीयते न तस्याक्षिरोगो भवति ।
न तस्य कुले अन्धो भवति । अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति ।
ॐ विश्वरूपं घृणिनं जातवेदसं
हिरण्मयं पुरुषं ज्योतीरूपं तपन्तम् ।
विश्वस्य योनिं प्रतपन्तमुग्रं
पुरः प्रजानामुदयेतेष सूर्यः ।
ॐ नमो भगवते आदित्याय अहोवाहिन्यहोवाहिनी स्वाहा ।
ॐ वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः ।
अपध्वान्तमूर्णूहि पूर्द्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ।
पुण्डरीक्षाय नमः । पुष्करेक्षणाय नमः । अमलेक्षणाय नमः ।
कमलेक्षणाय नमः । विश्वरूपाय नमः । महाविष्णवे नमः ।
॥ इति चाक्षुषोपनिषत् सम्पूर्णा ॥